(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 12. शान्तिपर्व(महाभारत)


॥ श्रीः ॥
12.111. अध्यायः 111
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति परीक्षायाः सौम्यासौम्यत्वनिर्धारणसाधनताप्रतिपादकव्याघ्रगोमायुचरितकथनम्॥ 1॥


Mahabharata - Shanti Parva - Chapter Text

युधिष्ठिर उवाच। 12-111-0x(5638)(69117)
असौम्याः सौम्यरूपेण सौम्याश्चासौम्यरूपिणः।
तादृशान्पुरुषांस्तात कथं विद्यामहे वयम्॥ 12-111-1(69118)
भीष्म उवाच। 12-111-2x(5639)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
व्याघ्रगोमायुसंवादं तं निबोध युधिष्ठिर॥ 12-111-2(69119)
पुरिकायां पुरि पुरा श्रीमत्यां पौरिको नृपः।
पररिंसापरः क्रूरो बभूव पुरुषाधमः॥ 12-111-3(69120)
स त्वायुषि परिक्षीणे जगामानीप्सितां गतिम्।
गोमायुत्वं च संप्राप्तो दूषितः पूर्वकर्मणा॥ 12-111-4(69121)
संस्मृत्य पूर्वजातिं स्वां निर्वेदं परमं गतः।
न भक्षयन्ति मांसानि परैरुपहृतान्यपि॥ 12-111-5(69122)
अहिंसा सर्वभूतेषु सत्यवाक् सुदृढव्रतः।
चकार च यथाकालमाहारं पतितैः फलैः॥ 12-111-6(69123)
`पर्णहारः कदाचिच्च नियमव्रतवानपि।
कदा चदुदकेनापि वर्तयन्न तु यन्त्रितः॥' 12-111-7(69124)
श्मशाने तस्य चावासो गोमायोः संमतोऽभवत्।
जन्मभूम्यनुरोधाच्च नान्यं वा समरोचयत्॥ 12-111-8(69125)
तस्य शौचममृष्यन्तस्ते सर्वे सहजातयः।
चालयन्ति स्म तां बुद्धिं वचनैः प्रश्रयोत्तरैः॥ 12-111-9(69126)
वसन्पितृवने रौद्रे शौचं लम्भितुमिच्छसि।
इयं विप्रतिपत्तिस्ते यदा त्वं पिशिताशनः॥ 12-111-10(69127)
तत्समानो भवात्समाभिर्भक्ष्यं दास्यामहे वयम्।
भुङ्क्ष्व शौचं परित्यज्य यद्धि भुक्तं तदस्ति ते॥ 12-111-11(69128)
इति तेषां वचः श्रुत्वा प्रत्युवाच समाहितः।
मधुरैः प्रश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः॥ 12-111-12(69129)
अप्रमाणा प्रसूतिर्मे शीलतः क्रियते कुलम्।
प्रार्थयामि च तत्कर्म येन विस्तीर्यते यशः॥ 12-111-13(69130)
श्मशाने यदि मे वासः समाधिर्मे निशाम्यताम्।
आत्मा फलति कर्माणि नाश्रमो धर्मलक्षणम्॥ 12-111-14(69131)
आश्रमे यो द्विजं हन्याद्दानं दद्यादनाश्रमे।
किंतु तत्पातकं न स्यात्तद्वा दानं वृथा भवेत्॥ 12-111-15(69132)
भवन्तः स्वार्थलोभेन केवलं भक्षणे रताः।
अनुबन्धेषु ये दोषास्तान्न पश्यन्ति मोहिताः॥ 12-111-16(69133)
अप्रत्ययकृतां गर्ह्यामर्थापनयदूषिताम्।
इह चामुत्र चानिष्टां तस्माद्वृत्तिं न रोचये॥ 12-111-17(69134)
तं शुचिं पण्डितं मत्वा शार्दूलः ख्यातविक्रमः।
कृत्वाऽऽत्मसदृशीं पूजां साचिव्येऽवरयत्स्वयम्॥ 12-111-18(69135)
शार्दूल उवाच। 12-111-19x(5640)
सौम्य विज्ञातरूपस्त्वं गच्छ यात्रां मया सह।
व्रियन्तामीप्सिता भोगाः परिहार्याश्च पुष्कलाः॥ 12-111-19(69136)
तीक्ष्णा इति वयं ख्याता भवन्तं ज्ञापयामहे।
मृदुपूर्वं प्रशाधि त्वं श्रेयश्चाधिगमिष्यसि॥ 12-111-20(69137)
भीष्म उवाच। 12-111-21x(5641)
अथं संपूज्य तद्वाक्यं मृगेन्द्रस्य महात्मनः।
गोमायुः प्रश्रितं वाक्यं बभाषे किंचिदानतः॥ 12-111-21(69138)
सदृशं मृगराजैतत्तव वाक्यं मदन्तरे।
यत्सहायान्मृगयसे धर्मार्थकुशलाञ्शुचीन्॥ 12-111-22(69139)
न शक्यं ह्यनमात्येन महत्त्वमनुशासितुम्।
दुष्टामात्येन वा वीर शरीरपरिपन्थिना॥ 12-111-23(69140)
सहायाननुरक्तांश्च नयज्ञानुपसंहितान्।
परस्परमसंतुष्टान्विजिगीषूनलोलुपात्॥ 12-111-24(69141)
अनतीतोपदान्प्राज्ञान्हिते युक्तान्मनस्विनः।
पूजयेथा महाभाग यथा भ्रातृन्यथा पितॄन्॥ 12-111-25(69142)
न त्वेव मम संतोषाद्रोचतेऽन्यन्मृगाधिप।
न कामये सुखान्भोगानैश्वर्यं वा त्वदाश्रयम्॥ 12-111-26(69143)
न योक्ष्यति हि मे शीलं तव भृत्यैः पुरातनैः।
ते त्यां विभेदयिष्यन्ति दुःखशीला मदन्तरे॥ 12-111-27(69144)
संश्रयः श्लाघनीयस्त्वमन्येषामपि भास्वताम्।
कृतात्मा सुमहाभागः पापकेष्वप्यदारुणः॥ 12-111-28(69145)
दीर्घदर्शी महोत्साहः स्थूललक्षो महाबलः।
कृते चामोघकर्ताऽसि भाग्यैश्च समलंकृतः॥ 12-111-29(69146)
किंतु स्वेनास्मि संतुष्टो दुःखा वृत्तिरनुष्ठिता।
सेवायां चापि नाभिज्ञः स्वच्छन्देन वनेचरः॥ 12-111-30(69147)
प्राज्ञोपक्रोशदोषाश्च सर्वे संश्रयवासिनाम्।
वनचर्या तु निःसङ्गा निर्भया विरवग्रहा॥ 12-111-31(69148)
नृपेण हियमाणस्य यत्तिष्ठति भयं हृदि।
न तत्तिष्ठति तुष्टानां वने मूलफलाशिनाम्॥ 12-111-32(69149)
पानीयं वा निरायासं स्वाद्वन्नं वा गुणोत्तरम्।
विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृत्तिः॥ 12-111-33(69150)
अपराधैर्न तावन्तो भृत्याः शिष्टा नराधिपैः।
अपजातैर्यथा भृत्या दूषिताः निधनं गताः॥ 12-111-34(69151)
यदि वा तन्ममा कार्यं मृगेन्द्र यदि मन्यसे।
समयं कृतमिच्छामि वर्तितव्यं यथाविधि॥ 12-111-35(69152)
मदीया माननीयास्ते श्रोतव्यं च हितं वचः।
कल्पिता या च मे वृत्तिः सा भवेत्त्वयि सुस्थिरा॥ 12-111-36(69153)
न ------- सचिवैः सह कर्हिचित्।
तीतिमन्तः परीप्सन्तो वृथा ब्रूयुः परे मयि॥ 12-111-37(69154)
एक एकेन संगम्य रहो ब्रूयां हितं वचः।
नच ते शातिकार्येषु प्रष्टत्र्योऽस्मि हिताहिते॥ 12-111-38(69155)
--- --- पश्चाच्च न हिंस्याः सचिवास्त्वया।
मदीयानां च कुपितो मा त्वं दण्डं निपातयेः॥ 12-111-39(69156)
भीष्म उवाच। 12-111-40x(5642)
एवमस्त्विति तेनासौ मृगेन्द्रेणाभिपूजितः।
प्राप्तवान्मतिसाचिव्यं गोमायुर्व्याघ्रचोदितः॥ 12-111-40(69157)
तं तथा सत्कृतं दृष्ट्वा युज्यमानं च कर्मसु।
प्राद्विषन्कृतसंघाताः पूर्वभृत्या मुहुर्मुहुः॥ 12-111-41(69158)
मित्रबुद्ध्या च गोमायुं सान्त्वयित्वा प्रवेश्य च।
दोषेषु समयान्नेतुमिच्छन्त्यशुभबुद्धयः॥ 12-111-42(69159)
अन्यथा ह्युषिताः पूर्वं परद्रव्यापहारिणः।
अशक्ताः किंचिदाहर्तुं द्रव्यं गोमायुयन्त्रिताः॥ 12-111-43(69160)
व्युत्थानं चात्र काङ्क्षद्भिः कथाभिः प्रतिलोभ्यते।
धनेन महता चैव बुद्धिरस्य विलोभ्यते॥ 12-111-44(69161)
न चापि स महाप्राज्ञस्तस्माद्वैर्याच्चचाल ह।
अथास्य समयं कृत्वा विनाशाय स्थिताः परे॥ 12-111-45(69162)
ईप्सितं तु मृगेन्द्रस्य मांसं यत्तत्र संस्कृतम्।
अपनीय स्वयं तद्धि तैर्न्यस्तं तस्य वेश्मनि॥ 12-111-46(69163)
यदर्थं चाप्यपहृतं येन तच्चैव मन्त्रितम्।
तस्य तद्विदितं सर्वं कारणार्थं च मर्षितम्॥ 12-111-47(69164)
समयोऽयं कृतस्तेन साचिव्यमुपगच्छता।
नोपघातस्त्वया कार्यो राजन्मैत्रीमिहेच्छता
`इति तस्य च मन्त्रस्य स्थित्यर्थं तदुपेक्षितम्॥ 12-111-48(69165)
[क्षुधितस्य मृगेन्द्रस्य भोक्तुमभ्युत्थितस्य च]
भोजने चोपहर्तव्ये तन्मांसं नह्यदृश्यत।
मृगराजेन चाज्ञप्तं मृग्यतां चोर इत्युत॥ 12-111-49(69166)
कृतकैश्चापि तन्मांसं मृगेन्द्राय निवेदितम्।
सचिवेनापनीतं ते विदुषा प्राज्ञमानिना॥ 12-111-50(69167)
सरोषस्त्वध शार्दूलः श्रुत्वा गोमायुचापलम्।
बभूवामर्षितो राजा वधं चास्य व्यरोचयत्॥ 12-111-51(69168)
छिद्रं तु तस्य तदृष्ट्वा प्रोचुस्ते पूर्वमन्त्रिणः।
सर्वेषामेव सोऽस्माकं वृत्तिभङ्गे प्रवर्तते।
निश्चित्यैवं पुनस्तस्य ते तत्कर्मण्यवर्तयन्॥ 12-111-52(69169)
इदं तस्येदृशं कर्म किं तेन न कृतं भवेत्।
श्रुतश्च स्वामिना पूर्वं यादृशो नैव तादृशः॥ 12-111-53(69170)
वाङ्भात्रेणैव धर्मिष्ठः स्वभावेन तु दारुणः।
धर्मच्छझा ह्ययं पापो वृथाचारपरिग्रहः॥ 12-111-54(69171)
कार्यार्थं भोजनाद्येषु व्रतेषु कृतवाञ्श्रमम्।
यदि विप्रत्ययो ह्येष तदिदं दर्शयाम् ते॥ 12-111-55(69172)
तन्मांसं तैश्च गोमायोस्तत्क्षणादाशु ढौकितम्॥ 12-111-56(69173)
मांसापनयनं श्रुत्वा व्याघ्रस्तेषां च तद्वचः।
आज्ञापयामास तदा गोमायुर्वध्यतामिति॥ 12-111-57(69174)
गोमायोर्व्यसनं श्रुत्वा शार्दूलजननी ततः।
मृगराजं हितैर्वाक्यैः संबोधयितुमागमत्॥ 12-111-58(69175)
पुत्र नैतत्त्वया ग्राह्यं कपटारम्भसंयुतम्।
कर्म संघर्षजैर्दोषैर्दुष्येताशुचिभिः सुचिः॥ 12-111-59(69176)
नोच्छ्रितं सहते कश्चित्प्रक्रिया वैरकारिका।
शुचेरपि हि युक्तस्य दोष एव निपात्यते॥ 12-111-60(69177)
[मुनेरपि वनस्थस्य स्वानि कर्माणि कुर्वतः
उत्पाद्यन्ते त्रयः पक्षा मित्रोदासीनशत्रवः॥] 12-111-61(69178)
लुब्धानां शुचयो द्वेष्याः कातराणां तरस्विनः।
मूर्खाणां पण्डिता द्वेष्या दरिद्राणां महाधनाः।
अधार्मिकाणां धर्मिष्ठा विरूपाणां सुरूपिणः॥ 12-111-62(69179)
बह पण्डिता मूर्खा लुब्धा मायोपजीविनः।
आहुंर्दोषमदोषस्य बृहस्पतिमतेरपि॥ 12-111-63(69180)
सुन्य्रस्तं ते गृहे मांसं यदद्यापहृतं तव।
नेचते दीयमानं च साधु तावद्विधीयताम्॥ 12-111-64(69181)
असयाः सत्यसंकाशाः सत्याश्चासत्यदर्शनाः।
दृश्यन्ते विविधा भावास्तेषु युक्तं परीक्षणम्॥ 12-111-65(69182)
तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव।
न चैवास्ति तलं व्योम्नि खद्योते न हुताशनः॥ 12-111-66(69183)
तस्मात्प्रत्यक्षदृष्टोऽपि युक्तो ह्यर्थः परीक्षितुम्।
परीक्ष्य ज्ञापयन्नर्थान्न पश्चात्परितप्यते॥ 12-111-67(69184)
न दुष्करमिदं पुत्रं यत्प्रभुर्घातयेत्परम्।
श्लाघनीया यशस्या च लोके प्रभवतां क्षमा॥ 12-111-68(69185)
स्थापितोऽयं त्वया पुत्र सामन्तेष्वपि विश्रुतः।
दुःखेनासाद्यते पात्रं धार्यतामेष ते सुहृत्॥ 12-111-69(69186)
दूषितं परदोषैर्हि गृह्णीते योऽन्यथा शुचिम्।
स्वयं संदूषितामात्यः क्षिप्रमेव विनश्यति॥ 12-111-70(69187)
एतस्मादरिसंघाताद्गोमायोः कश्चिदागतः।
धर्मात्मा तेन चाख्यातं यथैतत्कपटं कृतम्॥ 12-111-71(69188)
ततो विज्ञातचारित्रः सत्कृत्य स विमोक्षितः।
परिष्वक्तश्च सस्नेहं मृगेन्द्रेण पुनः पुनः॥ 12-111-72(69189)
अनुज्ञाय मृगेन्द्रं तु गोमायुर्नीतिशास्त्रवित्।
तेनामर्षेण संतप्तः प्रायमासितुमैच्छत॥ 12-111-73(69190)
गोमायुं तु स शार्दूलः स्नेहात्प्रसृतलोचनः।
न्यवारयत्स धर्मिष्ठं पूजया प्रतिपूजयन्॥ 12-111-74(69191)
तं स गोमायुरालोक्य स्नेहादागतसंभ्रमः।
बभाषे प्रणतो वाक्यं बाष्पगद्गदया गिरा॥ 12-111-75(69192)
पूजितोऽहं त्वया पूर्वं पश्चाच्चैव विमानितः।
परेषामास्पदं नीतो वस्तुं नार्हाम्यहं त्वयि॥ 12-111-76(69193)
असंतुष्टाश्च्युताः स्थानान्मानात्प्रत्यवरोपिताः।
स्वयं चोपद्रुता भृत्या ये चाप्युपहिताः परैः॥ 12-111-77(69194)
परिक्षीणाश्च लुब्धाश्च क्रुद्धा भीताः प्रतारिताः।
हृतस्वा मानिनो ये च त्यक्तोपात्ता महेप्सवः॥ 12-111-78(69195)
संलालिताश्च ये केचिद्व्यसनौघप्रतीक्षिणः।
अन्तर्हिताः सोहपृतास्ते सर्वेऽपरसाधनाः॥ 12-111-79(69196)
अवमानेन युक्तस्य स्थापितस्य च मे पुनः।
कथं यास्यसि विश्वासमहमेष्वामि वा कथम्॥ 12-111-80(69197)
समर्थ इति संगृह्य स्थापयित्वा परीक्षितः।
कृतं च समयं भित्त्वा त्वयाऽहमवमानितः॥ 12-111-81(69198)
प्रथमं यः समाख्यातः शीलवानिति संसदि।
न वाच्यं तस्य वैगुण्यं प्रतिज्ञां परिरक्षता॥ 12-111-82(69199)
एवं चावमतस्येह विश्वासं मे न यास्यसि।
त्वयि चापेतविश्वासे ममोद्वेगो भविष्यति॥ 12-111-83(69200)
शङ्कितस्त्वमहं भीतः परे च्छिद्रानुसारिणः।
अस्त्रिग्धाश्चैव दुस्तोषाः कर्म चैतद्बहुच्छलम्॥ 12-111-84(69201)
दुःखेन श्लिष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते।
भिन्नश्लिष्टे तु या प्रीतिर्न सा स्नेहेन वर्धते॥ 12-111-85(69202)
कश्चित्तव हिते भर्तुर्दृश्यते न परात्मनः।
कार्यापेक्षा हि वर्न्तते भावस्त्रिग्धाः सुदुर्लभाः॥ 12-111-86(69203)
सुदुःखं पुरुषज्ञानं चित्तं ह्येषां चलाचलम्।
समर्थो वाप्यशङ्को वा शतेष्वेकोऽधिगम्यते॥ 12-111-87(69204)
अकस्मात्प्रक्रिया नॄणामकस्माच्चापकर्षणम्।
शुभाशुभे महत्त्वं च प्रहर्तुं बुद्धिलाघवम्॥ 12-111-88(69205)
भीष्म उवाच। 12-111-89x(5643)
एवंविधं सान्त्वमुक्त्वा धर्मकामार्थहेतुमत्।
प्रसादयित्वा राजानं गोमायुर्वनमभ्यगात्॥ 12-111-89(69206)
अगृह्यानुनयं तस्य मृगेन्द्रस्य च बुद्धिमान्।
गोमायुः प्रायमासीनस्त्यक्त्वा देहं दिवं ययौ॥ ॥ 12-111-90(69207)

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकादशाधिकशततमोऽध्यायः॥ 111॥

Mahabharata - Shanti Parva - Chapter Footnotes

12-111-10 विप्रतिपत्तिर्विपरीता बुद्धिः॥ 12-111-16 अनुबन्धेषु परिणामेषु॥ 12-111-17 अप्रत्ययोऽसंतोषस्तेन कृताम्। अर्थापनयो धर्महानिः॥ 12-111-19 यात्रां राजकार्यं गच्छ प्राप्नुहि। परिहार्याश्चानीप्सिताः॥ 12-111-20 ज्ञापयामहे सूचयामहे॥ 12-111-22 मदन्तरे मन्निमित्तम्॥ 12-111-23 न शक्यम्। राज्ञेति शेषः॥ 12-111-26 -- ----- -- सन्तोशदिति ट. ड. थ. द. पाठः॥ 12-111-27 योक्ष्यति योगं प्राप्स्यति। दुःखशीला भविष्यन्ति॥ 12-111-29 स्थूललक्षो बहुप्रदः॥ 12-111-31 उपक्रोधो निन्दा तज्जा दोषा उपक्रोशदोषाः सन्ति॥ 12-111-33 यत्र निर्वृतिः सुखं तत्खलु सुखं स्वर्गं पश्यामि। निर्वृतिः सुस्थितिरिति वा॥ 12-111-34 शिष्टाः कृतदण्डः॥ 12-111-46 तस्य गोमायोर्वेश्मनि॥ 12-111-47 तस्य गोमायोः। कारणार्थं स्वस्य बन्धविच्छेदो भवत्विति हेतोरित्यर्थः॥ 12-111-51 परोक्षस्त्वथ इति ट. द. पाठः॥ 12-111-55 विप्रत्ययोऽविश्वासः॥ 12-111-56 गोमायोर्गृहे ढौकीतं प्रवेशितं मांसं प्रदर्शयामासुरित्यर्थः। तत्क्षणादेव दर्शितं इति द. पाठः॥ 12-111-58 शार्दूलस्य वचः श्रुत्वा इति झ. पाठः॥ 12-111-59 संघर्षजैः स्पर्धोत्थैः॥ 12-111-60 प्रक्रिया प्रकृष्टं कर्म॥ 12-111-66 तलवत् अवाङ्भुस्वकटाहगर्भवत्॥ 12-111-68 प्रभवतां प्रभूणाम्॥ 12-111-71 गोमायोश्चारः॥ 12-111-73 प्रायं मरणार्थमुपवेशनं आसितुं आचरितुम्॥ 12-111-76 वक्तुं नार्होस्म्यहं त्वया इति ट. ड. द. पाठः॥ 12-111-79 अपरसाश्च अधनाश्चेति अपरसाधनाः। प्रीतिशून्या निर्घनाश्चेत्यर्थः॥ 12-111-84 छिद्रानुदर्शिनः इति झ. पाठः॥ 12-111-87 पुरुषज्ञानं सुदुःखं दुर्लभं यत एषां नृपाणां चित्तं चलाचलमस्थिरं गम्यते ज्ञायते सुपुरुषज्ञानं दुर्धटमित्यर्थः॥ 12-111-88 प्रक्रिया महीकरणं बुद्धेर्लाघवं तुच्छत्वमेव हेतुः॥ 12-111-89 प्रसादयित्वा प्रसाद्य॥ 12-111-90 अगृह्य अगृहीत्वा॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.